SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ १७२३ ऽध्यायः] उपनयनप्रकरणवर्णनम् । उपाकरणपर्यन्तं सावित्र्या ब्रह्मयज्ञकम् । ततोऽग्निमील इत्यादि जपेद्वेदान्स्वशक्तितः॥४ चतुर्थदिवसे कुर्यान्मेधाजननकं च हि। संध्यादिकं विधायाथ गच्छेत्पालाशसंनिधौ ॥५५ कलशान्स्थापयेत्तत्र चतुष्कोणेषु चैव हि । पलाशं पूजयेत्तत्र वसन्तं च यथाविधि ॥५६ श्रद्धां मेधां च वै प्रज्ञा पूजयेच्छद्धयेत्युचा । गन्धपुष्पाक्षतैश्चैव धूपदीपादिभिस्तथा ॥५७ प्रदक्षिणात्रयं कुर्यादाचार्यः सुश्रवं पठन् । निनयेजलधाराश्च सहैव ब्रह्मचारिणा ॥५८ मेखलामजिनं दण्डं वस्त्रं यज्ञोपवीतकम् । एकैकं धारयेत्तत्र क्रमेणैवं त्यजेदथ ॥५६ आचार्याय च ते दद्याद्वाससी ब्रह्मचार्यथ । नवं चैवात्र कौपीनं धारयेत्पुनरेव हि ॥६० विप्रेभ्यः कलशान्दद्याद् गृह्णीयादाशिषः शुभाः। यथाचारं तथा कुर्यादेवकोत्थापनं च हि ॥६१ इत्याश्वलायनस्मृतावपनयनप्रकरणम् ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy