________________
१७२२
लध्वाश्वलायनस्मृतिः। [दशमोवित्ते सति कृतं कर्म निष्फलं स्याद्धनक्षयः। धनिनोऽयं निषेधः स्याद् व्रतहीनस्य चैव हि ॥४४ असमर्थो नमेत्सद्योदत्त्वाऽक्षतफलादिकम् । विप्रेभ्योदक्षिणां दत्त्वा गृह्णीयादाशिषः स्वयम् ॥४५ यथाविभवसारेण हेतवे यज्ञसाक्षिणः।। आसायं न हि किंचित्स्यान्नत्यकं कर्म चैव हि ॥४६ ब्रह्मचारिण एवात्र सायं संध्या विधीयते । ब्रह्मचारी ततः कुर्यात्सायंसंध्यां यथाविधि ॥४७ अग्निकार्य तथा होमं तस्मिन्ननौ विधीयते । नो चेत्स्यापूर्ववत्कुर्यादाचायः स्थण्डिलादिकम् ॥४८ पूर्णपात्रनिधानान्तमनलस्थापनादिकम् । निर्वपेन्मातृतः प्राप्तांस्तडुलान्सदसस्पतेः । सवितुध ततस्तूष्णीमृषीणां मन्त्रतः क्रमात् ॥४६ श्रपयित्वौदनं कुर्यादाघारान्तं हुनेदथ । सदसस्पतिमन्त्रोण गायत्र्यर्षिभ्य एव च ॥५० चाहुतित्रयं दत्त्वा कुर्यात्स्विष्टकृदादिकम् । भोजयित्वा द्विजान्वेदसमाप्तिरस्य चोत्तरे ॥५१ निर्विघ्नेन त्रिवारं तु पिताऽस्य ब्रह्मचारिणः । वसेदसौ त्रिरात्रं तु क्षारादिव्रतमाचरेत् ॥५२ प्रातःसंध्यामुपास्याग्निकार्य कृत्वा परेऽहनि । मण्याचाऽऽचरेत्संध्या ब्रह्मयज्ञादनन्तरम् ॥५३