SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] उपनयनप्रकरणवर्णनम् । १७२१ पाणिना हृदयं तस्य स्पृष्टा मम व्रतं जपेत् । प्राणायाभं ततः कृत्वा ब्रह्मचार्गेव नेतरः ॥३३ आवध्य मेखलां तस्य प्रावेपामेत्यूचं जपेत् । एषक्षेत्यनया दण्डं धारयित्वादिशेव्रतम् ॥३४ ब्रह्मचर्यादिकं मिक्षां ददात्वित्यन्त एव च । ततः स्विष्टकृतं हुत्वा होमशेष समाप्य च ॥३५ याचयेत्प्रथमा भिक्षां पितरं मातरं च वा। पितरं यदि याचेत भवान्भिक्षां ददात्विति ॥३६ भवतीति पदं चोक्त्वा भिक्षा देहीति याचयेत् । मातरं चाग्र एवेति गत्वा पात्रं करान्तिके ॥३७ तण्डुलान्सफलान्दधाद्भिक्षार्थ जननी तु च । होमार्थ तण्डुलान्मात्रे दत्त्वा शेषं गुरोरथ ॥३८ याचिता तत्र या भिक्षा गुरवे तो निवेदत् । पितेव गुरुराचार्यो भवेत्सद्भिरुदाहृतः ॥३६ यस्मात्पुरोहितो ब्रह्मा होता च सह याज्ञिकम् । उक्त्वा वेदमधीवात्र यस्मादिशति वै पिता ॥४० तदाचार्यपदं तत्र जायते ब्राह्मणेऽपि हि । पिता माता तथाऽऽचार्यास्त्रयो मान्या सदैव हि ॥४१ अन्येऽपि श्रोत्रिया वृद्धा वेदविद्याप्रदास्तथा । दद्याद्विभवसारेण कर्माङ्गत्वेन दक्षिणाम् ।।४२ सुवर्णाम्वरधान्यानि सद्योऽनन्तफलं लभेत् । न ददाति द्विजो होने लोभाधज्ञाङ्गदक्षिणाम् ॥४३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy