________________
१७२०
लध्वाश्वलायनस्मृतिः। दशमोपाणिभ्यामुत्तरेणांसौ पाणी वाऽस्य हृदि स्पृशेत् । एवं कृत्वा पुनश्चामुं दक्षिणे बटुमानयेत् ।।२२ तूष्णी समिधमादाय निदध्यादनले च ताम् । मन्त्रणामय इत्यत्र वदन्त्येके महर्षयः ॥२३
ओष्ठौ विलोमको कृत्वा पाणिद्वयतलेन च । त्रिवारं प्रतिमन्त्रेण तेजसा मेति चैव हि ॥२४ सूत्रोदितान्मयीत्यादीन्मन्त्रांस्तिष्ठञ्जपेदथ । मानस्तोकेऽनया भाले त्रिपुण्डू धारयेत्क्रमात् ।।२५ हृदि नाभौ तथा बाह्वोर्मस्तके चापि केचन । त्र्यायुषं ताञ्जपेन्मन्त्रानुपस्थायों च मे स्वरः ॥२६ पुरतः पितुरासीनो ब्रह्मचारी कुशासने । गायत्रीमनुगृह्णीयादुपांशु प्रत्यगाननः ॥२७ पूर्ववदुपविश्यांसावन्वाच्य जानु दक्षिणम् । फलाक्षतसुवर्ण च गुरवे तन्निवेदयेत् ।।२८ अधीहीत्यादिकं मन्त्रां समुबार्य यथाविधि । नमस्कुर्याद् गुरोः पादौ धृत्वा हस्तद्वयेन च ॥२६ ब्राह्मणोऽहं भवानीह गुरोऽहं ते प्रसादतः। गायत्री(त्री)मामनुबहि शुद्धात्मा सर्वदाऽस्मि हि ॥३० संगृह्य पाणी पाणिभ्यां स्वस्य च ब्रह्मचारिणः । वाससाऽऽच्छादनं कृत्वा गायत्रीमनुवाचयेत् ॥३१ उचार्य प्रणवं चाऽऽदौ भुर्भुवः स्वस्ततः परम् । पच्छ(पाद)मर्धमृचं चैव तं यथाशक्ति वाचयेत् ॥३२