________________
दशमो
१७१८ लघ्वाश्वलायनस्मृतिः।
॥ दशमोऽध्यायः॥
अथीपनयनप्रकरणम् ब्राह्मणस्याष्टमे वर्षे विहितं चोपनायनम् । सप्तमे चाथ वा कुर्यात्सर्वाचार्यमतं भवेत् ॥१ कृत्वाऽऽभ्युदयिकं श्राद्धमावाह्य कुलदेवताः । मण्डपाद्यर्चनं कृत्वा भोजयेच्च द्विजान्स्वयम् ॥२ अथापरेधुरभ्यज्य कुमारं भोजयेचतः । वपेवक्तवतः केशान्मात्रासहैकभाजने ॥३ चैलाङ्गस्थापिते ये च शिखे द्वे तेऽपि वापयेत् । सकेशेऽपि कुमारस्य हित्वैकां मध्यमस्थिताम् ।।४ आसीनस्यान्तिके स्नातं कुमारमुपवेशयेत् । पितुश्च प्राङ्मुखस्येह प्रत्यङ्मुखमलंकृतम् ।।५ धृत्वाऽञ्जलिं कुमारस्य सुवर्णफलसंयुतम् । मुहूर्तकालपर्यन्तमसमीक्ष्य परस्परम् ।।६ ध्यायन्देवान्सुमुहूर्ते मुहूर्ते पितुरञ्जलौ । दत्त्वा फलमसौ तस्य निदध्यात्पादयोः शिरः॥७ शिरः स्पृशेत्पिता तस्य स्वाङ्क तमुपवेशयेत् । यो यज्ञेन पठेत्सूक्तमाचार्यो ब्राह्मणैः सहः ।।८ आज्यसंस्कारपर्यन्तं प्राणायामादिपूर्वकम् । कृत्वा नवं ततो दद्यात्कौपीनं कटिसूत्रकम् ।। धारयित्वा ततो दद्याद्वाससी युवमित्यूचा । एक स्यात्परिधानार्थमेकं प्रावरणाय हि ॥१०