________________
ऽध्यायः] चौल(चूड़ाकरण)कर्मप्रकरणवर्णनम् ।
विन्यसेत्ताञ्छमीपणैः सहाऽऽनडुहगोमये। येनावपत्प्रथमं स्याद्येन धाता द्वितीयकः ॥१४ तृतीये येन भूयश्च सर्व रेव चतुर्थकम् । एवं च दक्षिणे कृत्वा त्रिवारं तूत्तरे तथा ॥१५ यत्क्षुरेणेति मन्त्रेण क्षुरधारां जलेन च । निमृज्येन्मर्म तत्कृत्वा नापिताय प्रदापयेत् ॥१६ यावन्तः प्रवरास्तस्य शिखामध्ये च पार्श्वयोः। पश्चात्पूर्वे तथा पञ्चप्रवराणां शिखाः स्मृताः ॥१७ अभ्यञ्जयेत्कुमारं तमानयेदनिसंधौ। ततः स्विष्टकृतं हुत्वा होमशेष समापयेत् ॥१८ .. यदुक्तं च यथाकाले कुर्यात्संस्कारकर्म च । असामर्थ्यात्कृतं नो चेद्विधिस्तस्य कर भवेत् ॥१६ प्रायश्चित्तं विधायाऽऽदावेकैकस्य च कर्मणः । कृत्वाऽऽदौ कृच्छमेकैकं लुसकर्माणि कारयेत् ॥२० मन्त्रमेकं जपेत्तत्र तत्तत्कर्मणि एव हि । विधिवञ्चौलकमैवं कृत्वा स्यादुपनायनम् ।।२१ चौलकर्मादितश्चैवं यावद्वैवाहिकं भवेत् । तावत्स्याल्लौकिको ह्यग्निरिति घेदविदो विदुः ।।२२ इत्याश्वलायनस्मृतौ चौल(चूड़ाकरण)कर्मप्रकरणम् ।