________________
ऽध्यायः] अन्नप्राशनं, चौल(चूड़ाकरण)कर्मप्रकरणश्चवर्णनम् । १७१५
॥ अष्टमोऽध्यायः॥
अथान्नपाशनप्रकरणम्। षष्ठेऽन्नप्राशनं कुर्यान्मासे पुंस्यष्टमेऽथ वा। दशमे द्वादशे मासि केचिदेवं वदन्ति हि ॥१ कृत्वाऽऽभ्युदयिकं श्राद्धं शुभे चैव दिने पिता। सौवर्णे राजते पाने कांस्ये वाऽथ नवे शुभे॥२ क्षीराज्यमधुध्यन्नं विधाय प्राशयेच्छिशून् । मन्त्रेणानपतेऽन्नस्य हिरण्येन सुवेण च ।। पाणिना सपवित्रण जलं चापि हि पाययेत् । दत्त्वा विप्राय तत्पानं तूष्णीमेव च योषितः ।।४ ततो विभवसारेण ब्राह्मणांश्चापि भोजयेत् । स्वयं चैव तु भुञ्जीयात्समाहितमना भवेत् ॥५
इत्याश्वलायनस्मृतावन्नप्राशन[पूकरणम् ।
॥ अथ नवमोऽध्यायः ॥
अथ चौल(चूड़ाकरण)कर्मप्रकरणम् तृतीये वत्सरे चौलं बालकस्य विधीयते । शुभे चैव दिने मासि विहितं चोत्तरायणे ॥१ कृत्वाऽऽभ्युदयिकं श्राद्ध पूर्वेधुरपरेऽहनि । प्रातःसंध्यादिकं कृत्वा नान्दीश्राद्धं परेऽहनि ॥२ १०८