________________
१७०३
लघ्वाश्वलायनस्मृतिः। [द्वितीयोप्रधानदेवते चोत्तत्रा तथा चैवाङ्गदेवताः। क्रमेण चरुणाऽऽज्येन सद्यो यक्ष्य इति क्षिपेत्॥१० पहनं ततः कुर्याजलेन परिषेचयेत् । अनादेशे तु सर्वत्र दक्षिणः पाणिरुच्यते ॥११ पाणिना सोदकेनाग्नेः समन्तात्परिमार्जनम् । अनुलेपमुहक्संस्थं कुर्यादीशानकोणतः १२ पर्युक्षणेऽप्युदक्संस्थं पाणिनेशानकोणतः । पुनरावर्तयेत्प्रत्यगीशानान्तं हविर्भुजम् ॥१३ प्रसारयेदुदक्संस्थान्पूर्वपश्चिमयोः कुशान् । दक्षिणोचरतश्चैव प्राक्संस्थात्पूर्वतः क्रमात् ॥१४ मुष्टिमानैः कुशैरग्नैः समन्वाद्धोमकर्मसु । परितृणीयात्प्रागग्रेश्चतुदिक्षु यथाक्रमम् ।।१५ विन्यसेत्कुशमूलानां कुशाग्रानुपरि क्रमात् । दक्षिणोत्तरयोश्चैव चतुष्कोणेषु चव हि ॥१६ आस्तीर्याग्नेरुदग्दर्भान्प्रागग्रान्रत्निसंमितान् । द्वंद्वमासादयेन्न्युन्जं यज्ञपात्राणि तत्र तु ॥१७ स्थाली च प्रोक्षणा दीं सुवः पूर्णाज्यभाजने । इध्मं चैव तथा बर्हि चरुहोमे विधीयते ॥१८ चौलोपनयनोद्वाहे पुनराधन एव च । प्रोक्षणों सुवपूणाज्यमिध्माबहिस्रुवाज्यके ।।१६ अष्टालमितस्थाली प्रोक्षणी च षडङ्गुलाम् । चमसं चाऽऽज्यपात्रं च षडकुलमिति स्मृतम् ॥२०