SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ लघ्वाश्वलायनस्मृतिः। [प्रथमोन चैकत्र पचेदामं बहूनामथ वा द्वयोः । निषेधोऽयं परेषां तु पुत्रादीनां न हि कचित् ॥१७६ एवं भुक्त्वा द्विजश्चैव श्रुत्वा श्राद्धस्य वै कथाम् । श्रुतिस्मृतिपुराणोक्तमितिहासं पुरातनम् ।।१८० घटिकैकाऽवशिष्टा स्याद्रवेरस्तमितस्य च । प्रक्षाल्य पाणिपादं च द्विराचान्तः शुचिर्भवेत् ॥१८१ प्राकासीनः समाचम्य प्राणायामपुरःसरम् । पूर्वोक्तविधिना चैव सायंसंध्यां समाचरेत् ॥१८२ आदित्येऽस्तमिते यावत्तारकादर्शनं न हि । सायंहोमं तदा कुर्यानो चेत्स्युर्नव नाडिकाः ॥१८३ वैश्वदेवं पुनः सायं कुर्याद्यज्ञत्रयं च हि। .. देवं भूतं तथा पै(पि)त्र्यं भुक्वा स्वाध्यायमभ्यसेत् ॥१८४ ततः स्वपेयथाकामं न कदाचिदुदक्शिराः। एतावन्नत्यकं कर्म प्रवदन्ति मनीषिणः ॥१८५ अनेन विधिना यस्तु नैत्यकं कुरुते द्विजः । स याति परमं स्थानं पुनरावृचिदुर्लभम् ।।१८६ प्रत्यहं कर्मको(णो) योगः स्वाध्यायाभ्यसनं तथा । मन स्वस्थतया योगः स एवाऽऽत्मप्रकाशकः ॥१८७ त्यक्त्वेन्द्रियसुखं लोके यस्तिष्ठेद्यत्र कुत्रचित् । स एव योगी मुक्तः स्यात्सर्वसङ्गविवर्जितः ॥१८८ यः कचिन्मानवो लोके वारणस्यां त्यजेद्वपुः । स चाप्येको भवेन्मुक्तो नान्यथा मुनयो विदुः॥१८६ इत्याश्वलायनधर्मशास्त्रे ब्रह्ममार्गाचाराध्यायः [रप्रकरणम्]
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy