SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ब्रह्ममार्गाचारप्रकरणवर्णनम् । उच्छिष्टस्पर्शने चैव भुञ्जानश्च भवेद्यदि । पात्रस्थं चापि वाऽश्नीयादन्नं पात्रस्थितं च यत् ॥१६८ गायत्र्या संस्कृतं चान्नं न त्यजेदभिमन्त्रितम् । गृहीतं चेत्पुनश्चाद्याद् गायत्रीं न शतं जपेत् ॥१६६ अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंचितम् । अस्नेहा अपि गोधूमा यवगोरसविक्रियाः ॥१७० अपूपसक्तवो धानास्तकं दधि घृतं मधु । एतत्पण्येषु भोक्तव्यं भाण्डलेपो न चेद्भवेत् ॥१७१ अन्नाक्तभाजनंस्थानि दृष्यन्ते तानि चैव हि । शुद्धभाण्डस्थितानीह ग्राह्याण्याहुर्मनीषिणः ॥ १७२ प्राह्यं क्षा (क्षो ) रविकारं स्यात्सवं चैवेक्षुसंभवम् । तैलक्षीराज्यपक्क' च जलसंमिश्रितं न हि ॥ १७३ परान्नं नैव भुञ्जीयात्स्वकीयं चान्यपाचितम् । संस्काररहितं चैव नाश्नीयाद् ब्राह्मणः कचित् ॥१७४ ब्राह्मणो नैव भुञ्जीयादुहित्रन्नं कदाचन । अज्ञानाद्यदि भुञ्जीत रौरवं नरकं व्रजेत् ॥१७५ पत्नी स्नुषा स्वयं पुत्रः शिष्योऽथ वा गुरुः सुतः । आचार्यो वा पचेदन्नं भुञ्जीयात्तन्न दुष्यति ॥ १७६ शाकपाकादिकं निन्द्यं योऽन्नमद्यात्स्वकीयकम् । क्वचिच्छिष्टान्नमश्नीयाद्वत्सराभ्यन्तरे द्विजः ॥ १७७ यद्येकत्र पवेदाममात्मनश्चापरस्य च । यस्तदन्नं द्विजो भुङ्क्ते प्राजापत्येन शुध्यति ॥ १७८ १०७ ऽध्यायः ] १६६६.
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy