SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ १६६८ . लघ्वाश्वलायनस्मृतिः । गृह्णीयादाहुतीः पश्व सपवित्रेण पाणिना । त्यक्त्वा पवित्रमश्नीयाद्धृत्वा तत्पुनराचमेत् ॥ १५७ पुत्रवान्पितृमांश्चैव भुक्त्वा श्राद्धीय भोजनम् । न कुर्याद्भोजने मौनं प्राणाहुतीर्विना ॥१५८ पक्तिभेदेन यो भुङ्क्ते प्रासमात्रमपि द्विजः । अघं स केवलं भुङ्क्ते हतश्रीर्जायते ध्रुवम् ॥१५६ उत्तराचमनं पीत्वा मुखं प्रक्षालयेच्छुचिः । भुवैभ्यस्ततो दद्यात्ताम्बूलं मुखशुद्धये ॥ १६० भुक्त्वा चैव स्वयं विप्रः कुर्यात्ताम्बूलचर्वणम् । ततो नयेदहःशेषं श्रुत्यादिश्रवणादिभिः ॥१६१ स्पृशेदुच्छिष्टमुच्छिष्टः श्वानं शूद्रमथापि च । उपोष्य रजनीमेकां पञ्चगव्यं पिबेच्छुचिः ॥ १६२ श्वानं शूद्रं तथोच्छिष्टमनुच्छिष्टो न संस्पृशेत् । मोहाद्विप्रः स्पृशेद्यस्तु स्नानं तस्य विधीयते ॥ १६३ उच्छिष्टस्पर्शने स्नायाद्ब्राह्मणो विधिवर्जितम् । ब्रह्मविद्भजनोच्छिष्टपात्रचालं विनैव तु ॥ १६४ विप्रश्चैव स्वयं कुर्याद्विजभुक्पात्रचालनम् । प्रक्षाल्य पाणिपादं च द्विराचान्तः शुचिर्भवेत् ।।१६५ पात्राणि चालयेच्छ्राद्ध स्वयं शिष्योऽथ वा सुतः । असंस्कृतो न च स्त्री च न चान्यश्चालयेत्कचित् ॥१६६ परपाकरुचिर्न स्यादनिन्द्यामन्त्रणाहते । कदाचित्स्यादापदि तु नैव नित्यं कदाचन ॥१६७ [ प्रथमो
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy