________________
ऽध्यायः] सवैश्वदेवभूतबल्यतिथिमिक्षादानानांवर्णनम् । १६६५
परिषिच्यानलं चैव जुहुयान्याहृतीरथ । एताभ्यो देवताभ्योऽग्नेः पृथग्दद्याबलीन्भुवि ॥१२४ प्राक्संस्थानन्तरालं स्यादद्भ्य इत्यादितः क्रमात् । एता देयास्तथैव स्युः सूत्रोक्ता देवता इह ॥१२५ प्रागादिष्वाहुती द्वे द्वे इन्द्रायेत्यादितः क्रमात् । प्राक्संस्थे वाऽप्युदक्संस्थे चतुर्दिक्षु यथाक्रमम् ।।१२६ अप्रभागेऽन्तरालस्य दक्षिणे मूल उत्तरे। दिग्देवताहुतीनां च सममायतनं स्मृतम् ॥१२७ ब्रह्मादयोऽन्तरालस्य मध्ये शिष्टाश्च देवताः । प्रापसंखायापि वैताः स्यू रक्षोभ्य इति.चोचरे ॥१२८ स्वषा पितृभ्य इत्यनं दद्यात्मन्गेण भूतले। दक्षिणे चापसव्यं च पितृभ्योऽथ स्वधा नमः ।।१२६ वैवस्वतकुलोत्पन्नौ महावीरी सुरोत्तमौ। शुनौ द्वौ शाश्या)मशवलौ पितृभागार्थिनौ सदा ॥१३० ताभ्यां चापि बलिं दद्याधाम्ये चोदक्पृथक्पृथक् । सन्येनानेनःमन्त्रेण शा(श्या)माय शबलाय च ॥१३१ हविश्व जुहुयादग्नावुहेशत्यागपूर्वकम् । स्वाहान्ते चैव सर्वत्र होमकर्मणि चात्र तु ॥१३२॥ स्वाहा स्यातयोऽपि पितृयज्ञे स्वधा स्मृता । यज्ञ मानुषके चैव हन्तकारो विधीयते॥१३३ अतो मनुष्ययज्ञार्थं दधाद्विप्राय वाऽनले। सनकादिभ्य इत्युक्त्वा हन्तकारेण वै हविः॥१३४