________________
ऽध्यायः] अणत्रयविमुल्यथं देवर्षि पितृतर्पणम्। १६९३
संबन्धं नामगोत्रं च स्वधामुच्चारयेत्ततः । श्राद्धेऽपि विधिरेष स्यादाश्वलायनशाखिनाम् ।।१०२ सव्यहस्तानुलग्नेन दक्षिणेन तु पाणिना । कुर्यादह वृच एवं तु देवर्षिपितृतर्पणम् ॥१०३ वह वृचस्तर्पणं कुर्याजले वाऽप्यथ बर्हिषि । तर्पयेहेवतादींश्च बहिष्येव तु याजुषः ॥१०४ स्मृत्युक्तविधिनाऽचम्य ब्रह्मयज्ञं समाचरेत् । संतर्य देवतादींश्च बह वृचस्तत आचमेत् ॥१७५ मध्याह ब्रह्मयज्ञो वै नानुबन्धवशाद्भवेत् । प्रातरौपासनादूवं कुर्यादस्तमयावधि ॥१०६ नेत्यकं तपणं कुर्याद् ब्रह्मयज्ञपुरःसरम् । तश्चैव देवतादीनां यदा वा सानपूर्वकम् ॥१०७ स्नानं वारुणिकं चैव कचित्कर्तुं न शक्यते । तत्रादौ ब्रह्मयज्ञार्थ मन्त्रस्नानं विधीयते ॥१०८ पुण्यकालनिमित्तं यावर्पणं क्रियते यदि । पितॄणां केवलं तद्धि प्रवदन्ति महर्षयः ॥१०६ निमित्तं चोपरागादे रात्रावपि तथैव च । तीर्थान्तरेऽपि तद्वत्स्यादेकाहेऽप्यसकद्भवेत् ॥११० . नैत्यकं तर्पणं कुर्वादहन्येव तु बह वृचः। तर्पणं च तथा सौरं नैव रात्रौ कदाचन ॥१११
श्राद्धाजं सर्पर्ण यामे प्रथमे मधुवद्भवेत् । . .. पयो नीरं च रुधिरं क्रमाद्यामेषु च त्रिषु ॥ ११२ .