________________
१६६२ . लध्वाश्वलायनस्मृतिः। [प्रथमो.
सव्यांसे च स्थिते सूत्रो तत्सव्यं चाथ दक्षिणे। अपसव्यं भवेत्कण्ठे लम्बे सूत्रो निवीतकम् ।।११ न्यग्जानु दक्षिणं कृत्वा देवान्सतर्पयेहषीन् । तद्वजानुद्वयं चाथ जानूवं दक्षिणं पितॄन् ।।१२ सव्येन तपेयेदेवानृश्चैिव निवीतिना। पितश्चैवापसव्येन विधिरेष उदाहृतः ॥६३. तर्पयेद्विधिनाऽनेन देवांश्चैवाङ्गुल प्रतः ।
ऋषींश्च वामभागेन पितृन्दक्षिणभागतः ॥६४ . .. एकैकं चाथ द्वौ द्वौ वै त्रीस्त्रीनेकैकमञ्जलीन् । • अर्हन्त्येते क्रमाश्च(च)व देवर्षिपितरस्त्रयः ।।६५
प्रत्यञ्जलि समुच्चार्य मन्नं दद्याद्वथाञ्जलिम् । देवर्षिपितृनामानि प्रोक्ता मन्त्रा महर्षिभिः ॥६६ पित्रादयत्रयश्वाऽऽदौ तिस्रो मात्रादयस्ततः। . सापत्नजननी मातामहादयत्रयस्तथा ॥६७ मातामह्यादयस्तिस्रः स्त्रीसुतभ्रातरस्तथा। पितृव्यो मातुलश्चैव दुहिता भगिनी तथा ॥६८ दौहित्रो भागिनेयश्च पितुर्मातुश्च वै स्वसा। श्वशुरो गुरवश्चैव मित्रां चैवेति केचन (IBE पुत्रादयः सपत्नीकाः स्त्रियश्चैवाह(थ) केवलाः । तर्पणेऽभिहितास्तीर्थे गयायां च महालये ॥१०० उक्त्वा पित्रादिसंबन्धं नामगोत्र स्वधानमः। बह वृचस्तु क्रमेणैव तर्पयामीति तर्पयेत् ॥१०१ ।