________________
ऽध्यायः] मध्याह्ननानादि विधिपूर्वक ब्रह्मयज्ञविधान वर्णनम् १६६१
कम्बले वाऽजिने पीठे कुशासनविनासने । न कुर्यादुपविष्टो वै ब्रह्मयज्ञं द्विजार्चनम् ॥८० न कुर्यात्तर्पणं श्राद्धं धृत्वा भालेऽनुलेपनम् । कदाचित्कुरुते मोहानरकं प्रतिपद्यते ॥८१ दक्षिणं चोपविश्योरु वामगुल्फोपरि न्यसेत् । वामोरो दक्षिणं गुल्फं तच्चोपस्थमुदीरितम् ॥८२ प्राणानायम्य संकल्प्य कुशपाणिधरः करम् । कृत्वा तु सव्यमुत्तानं न्यसेदुपरि दक्षिणम् ॥८३ सव्यस्य पाणेरङ्गुष्ठप्रदेशिन्योस्तु मध्यतः । दक्षिणस्याङ्गुलीय॑स्य चतस्रोऽङ्गुष्ठवर्जिताः॥८४ तथा सव्यकराङ्गुष्ठं दक्षिणाङ्गुष्ठवेष्टितम् । संबद्धमेवं कुर्वीत न्यसेदक्षिणसक्थिनि ॥८५ प्रागद्वे पविगे तु धृत्वाऽन्तःसंपुटौ करो। संन्यसेदक्षिणे जानौ ब्रह्मयज्ञं समाचरेत् ।।८६ अपूर्वा व्याहृतीस्तिस्रः स्वरतः सकृदुश्चरेत् । गायत्रीमुञ्चरेत्सम्यक्पादमर्धमृचं क्रमात् ॥८७ ऋषिदेवतच्छन्दांसि प्रणवं ब्रह्मयज्ञके । मन्त्रादौ नोच्चरेच्छ्राद्ध यागकालेऽपि चैव हि ॥८८ अग्निमील इषे त्वादि वेदांश्चैव स्वशक्तितः। अध्यायमनुवाकं वा पठेत्सूक्तमृचं च वा 18 उपवीतं यथा यस्मिन्धत्ते कर्मणि वैदिके। ब्रह्मचारी गृहखश्च तद्वद्वासोऽपि धारयेत् ।।१०
उथ