SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ १६६० लघ्वाश्वलायनस्मृतिः । नैव गच्छेद्विना भार्या सीमामुल्लङ्घ्य योऽग्निमान् । यत्र तिष्ठति वै भार्या वत्र होमो विधीयते ॥ ६६ गत्वा भार्या विना हो सीमामुल्लध्य यो द्विजः । कुरुते तत्र चेन्मोहाद्भुतं तस्य वृथा भवेत् ॥७० यथा जातोऽग्निमान्विप्रस्तन्निवासालये सदा । तस्या एवानुचारेण होमस्तत्र विधीयते ॥७१ धर्मानुचारिणी भार्या सवर्णा यत्र तिष्ठति । कुर्यात्तत्राग्निहोत्रादि प्रवदन्ति महर्षयः ॥ ७२ ततश्चैवाभ्यसेद्वेदं शिष्यानध्यापयेदथ । पोष्यवर्गार्थमन्नादि याचयेत यथोचितम् ॥७३ माता पिता गुरुर्भार्या पुत्रः शिष्यस्तथैव च । अभ्याश्रितोऽतिथिश्चैव पोष्यवर्ग इति स्मृतः ॥७४ मध्याह े च पुनः स्नायाद्धौतशुक्लाम्बरावृतः । श्रुत्युक्तविधिनाऽऽचम्य प्राङासीनः कुशासने ॥७५ गायत्र्याऽपश्चतसृणां पादे व्याहृतयः स्मृताः । सप्त मन्त्रशिरोमन्त्राः षड्भिराचमनं स्मृतम् (१) ॥७६ गायत्र्याश्च पिबेत्पादैरापो हि नवभिः स्पृशेत् । व्याहृतिभिः शिरोमन्त्रैरङ्गानि ब्रह्मयज्ञके ॥७७ पाणिगण्डूषकावोष्ठौ पाणिपादौ शिरो मुखम् । नासाबिलेऽक्षिणी श्रोत्रे नाभिहृन्मस्तकेंऽसकौ ॥७८ आद्यन्तौ प्रणव मन्त्रौ परतः पृष्ठतौ शुभौ । ब्रह्मको मध्यतो मन्त्री गायत्र्या शिरसः स्मृतः ॥७६ [ प्रथमो
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy