SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] गायत्रीमन्त्र जपपूर्वक प्रात:मविधिवर्णनम् । १६८६ प्रातः सायं जपेन्मन्त्रमों च मे स्वर इत्यथ । अभिवाद्य जपेद्देवीं विभूति चव धारयेत् ॥५८ विभूतिधारणे मानस्तोकेऽयं मन्त्र उच्यते । वृहत्सामेति वा होमे नैत्यके च महामखे ।।५६ कर्मकाले तु सर्वत्र स्मरेद्विष्णुं हविर्भुजम् । तेन स्यात्कर्म संपूर्ण तस्मै सर्व निवेदयेत् ॥६० अग्निसंरक्षणे शक्तिर्यस्य चैव न वर्तते । तदाऽरण्यामजस्राग्निं स्थापयेद्विधिपूर्वकम् ॥६१ समित्प्रतपनेऽयं ते योनिमन्त्र उदीरितः । या ते अग्ने भवेन्मन्त्रः पाण्यारोपे स्मृतो बुधैः ॥६२ होमकालः प्रपद्यत पुनश्चैवं विधीयते । मन्त्रेणान्वाहिते वह्नावजस्राग्निं क्षिपेदथ ॥६३ उपस्थानादिकं चैव सर्वे पूर्ववदाचरेत् ॥६४ कालद्वये यदा होमं द्विजः कर्तुं न शक्यते । सायमाज्याहुतिं चैव जुहुयात्प्रातराहुतिम् ॥६५ सायंकाले समस्तं स्यादाज्याहुतिचतुष्टयम् । हुत्वा कुर्यादुपस्थानं समस्येत्यनिसूर्ययोः ॥६६ होमश्चेत्पुरतः काले प्राप्तः स्यात्काल उत्तरः। हुत्वा व्याहृतिभिश्वाऽऽज्यं कुर्याद्धोमद्वयं च हि ॥६७ विच्छिन्नवह्निसंधानमपराह्ने विधीयते । सायमौपासनं कुर्यादस्तादुपरि भास्वतः॥६८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy