________________
ऽध्यायः ] स्नानवस्त्राचमनपूर्वक संध्योपासन विधिवर्णनम् १६.८७
आपः पुनन्तु मध्याह्न सायममिश्च मन्त्रतः । आचम्याथ पुनश्चाप इत्येभिनवभिः क्रमात् ॥३७ ॠगन्ते मार्जनं कुर्याद्विधिनाऽनेन बहूवृचः । ऋतं चत्यभिमन्त्रयापः समाधाय क्षिपेदधः ||३८ ऋतं चेति त्र्यृचं वाऽपि जप्त्वा तदनवेक्षितः । समाचम्य ततस्तिष्ठेद्दिशश्चाभिमुखो खेः ॥ ३६ जलमञ्जलिनाऽऽदाय गायत्र्या चाभिमन्त्रयेत् । दद्यादर्घ्यत्रयं तिष्ठंस्त्रिषु कालेषु बह वृचः ॥४० प्रातर्मध्याह्नयोरप्सु क्षिपेत्सायं महीतले । मध्याह तु विशेषोऽयं प्रदद्याद्धं स इत्युचा ॥४१ आकृष्णेन द्वितीयायं गायत्र्या च तृतीयकम् । उपतिष्ठन्समाचम्य तिष्ठेदभिमुखो वेः ॥४२ उदु त्यं चित्रमित्येतज्जपेत्सूक्तद्वयं च हि । हस्तेन भवेत्सूर्यः स आत्मा जगतो हि वै ॥ ४३ तेनैव सूक्तजाप्येन हरेरचन क्रुद्भवेत् । आच (चा) मेदुपविश्याथ प्राणायामत्रयं चरेत् ॥४४ ध्यात्वा देवी कुमारीं च तत्तत्कालानुरूपिणीम् । जपेत्प्रणवपूर्वाभिर्व्याहृतीभिः सहैव तु ॥४५ तिसृभिर्भूःप्रभृतिभिर्गायत्रीं ब्रह्मरूपिणीम् ब्रह्मचारी गृहस्थश्च शतमष्टोत्तरं जपेत् ॥४६ कालत्रयेऽप्यशक्तश्वेदष्टाविंशतिमेव वा । ततः कुर्यादुपस्थानं जातवेदस इत्युचा ॥४७