SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ब्रह्मचारिगृहस्थधर्मवर्णनम् । नवमी द्वादशी नन्दा पर्व चार्वमुपोणम । श्राद्धाहं च परित्यज्य दन्तधावनमाचरेत् ॥ १५ आचम्याथ द्विजः स्नायान्नद्यां वा देवनिर्मिते । तीर्थे सरोवरे चैव कूपे वा द्विजनिर्मिते || १६ त्रिराप्लुत्य समाचम्य शिखाबन्धं समाचरेत् । प्राणानायम्य संकल्प्य त्रिवारं मज्जयेत्पुनः ॥ १७ आचम्य वारुणं जाप्यं जपेत्सूक्तं च मार्जनम् । कुर्यादापो हि सूक्तेन ऋतमित्यघ्रमर्षणम् ॥१८ मार्जयेदथ चाङ्गानि गायत्र्या चाभिमन्त्रितम् । मस्तके च मुखे बाह्वोह्रदये पृष्ठदेशके ॥ १६ ब्रह्मादयश्च ये देवाः कृष्णद्वंपायनादयः । सोम इत्यादयः प्रोक्ताः पितरो जलतर्पणे ||२० यन्मया दूषिषं तोयं शारीरमलसंभवम् । तस्य पापस्य शुद्धयर्थं यक्ष्माणं तर्पयाम्यहम् ॥२१ स विप्रः स शुचिः स्नातो ह्यस्पर्शस्पर्शनं विना । कालत्रयेऽपि कर्माः स्वाध्यायनिरतोऽपि च ॥ २२ अशक्तश्वेज्जलस्नाने मन्त्रस्नानं समाचरेत् । आपोहिष्ठादिभिर्मन्त्रैस्त्रिभिश्चानुक्रमणे तु ॥ २३ पच्छ: पादशिरो हत्सु शिरोहत्पत्सु चार्धतः । हृत्पादमस्तकेंवं प्रत्यचा माजयेदथ ||२४ मस्तके मार्जनं कुर्यात्पादैः प्रणवसंयुतैः । बाह्यशुद्धिरनेन स्यादन्तः शुद्धिरथोच्यते ॥ २५ ऽध्यायः ] १६८५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy