________________
१६८४ लघ्वाश्वलायनस्मृतिः। [प्रथमो
दानशिष्टप्रतिमाहौ पोष्यवगैः सहाशनम् । सत्कथाश्रवणं सायंसंध्याहोमादिकं च हि ॥४ शयनं च यथाकाले धर्मपल्या सह गृही। ब्रह्मचारी स्वधर्मस्थो गुरुसेवापरो वसेत् ॥५ यजनं याजनं चैव वेदस्याध्ययनं च हि । अध्यापनं तथा दानं प्रतिग्रहमि(इ)होच्यते ॥६ एतानि ब्राह्मणः कुर्यात्षट्कर्माणि दिने दिने। अतः प्रातः समुत्थाय चिन्तयेदात्मनो हितम् ॥७ निर्गुणं निरहंकारं नारायणमनामयम् । सगुणं च श्रिया युक्तं देवं देवी सरस्वतीम् ।।८ यथाविधि ततः कुर्यादुत्सर्ग मलमूत्रयोः।। ब्रह्मचारी गृहस्थश्च शौचमद्भिदाऽऽचरेत् ॥ एका लिङ्गे करे तिस्रः करयोमवयं गुदे। पञ्च वामे दश प्रोक्ताः करे सप्ताथ हस्तयोः ॥१० एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः । वानप्रस्थस्य त्रिगुणं यतेश्चैव चतुर्गुणम् ॥११ स्वपादं पाणिना विप्रो वामेन क्षालयेत्सदा । शौचे दक्षिणपादं तु पश्चात्सव्यकरावुभौ ॥१२ शौचं विना सदाऽन्यत्र सव्यं प्रक्षाल्य दक्षिणम् । एवमेवाऽऽत्मनः पादौ परस्याऽऽदौ तु दक्षिणम् ॥१३ गण्डूषैः शोधयेदास्यमाच(चा)मेहन्तधावनम् । काठ पणैस्तृणैर्वाऽपि केचित्पणैः सदा तृणैः ॥१४