________________
ॐ तत्सद्ब्रह्मणे नमः।
॥ अथ ॥ लस्वाश्वलायनस्मृतिः ।।
॥ श्रीगणेशाय नमः ॥
॥ प्रथमोऽध्यायः॥ तत्र प्रथममाचारप्रकरणवर्णनम् । आश्वलायनमाचार्य नत्वाऽपृच्छन्मुनीश्वराः । द्विजधर्मान्वदास्माकं स्वर्गप्राप्तिकरान्मुने । इति तद्वचनं श्रुत्वा स धर्मान्मुनिरब्रवीत् ॥१ धर्मान्वः पुरतो वक्ष्ये ध्यात्वाऽहं भो मुनीश्वराः । लोकस्य च हितार्थाय ब्रह्ममार्गरतस्य च ॥२ स्नानं सन्ध्या जपो होमः स्वाध्यायाभ्यसनं तथा। माध्याडिकी क्रिया पञ्चयज्ञाद्यतिथिपूजनम् ॥३ १०६