SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ १६८२ प्रजापतिस्मृतिः । अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । येन केनाप्युपायेन पुत्रमुत्पादयेत्सुधीः ॥ १८८ सैकोद्दिष्टं दैवहीनं यतः पुत्रो न विद्यते । आयान्ति पुत्रिणः पूर्वे देवर्षिपिटवेष्टिताः || १८६ दर्शे द्वे पार्वणे कार्ये मातुर्मातामहस्य च । क्षयाहे च पितुर्मातुः पार्णवं (पार्वणं ) पार्वणं कृतम् ॥ १६० अम्बष्टकासु नवभिः पिण्डैः श्राद्धमुदाहृतम् । पित्रादौ मातृमध्यस्थं ततो मातामहान्तिकम् ॥१६१ अन्वष्टक्ये पितृभ्यश्च ततस्त्रीभ्यश्च दैवतम् । ताभ्यस्त्वदैवतं वृद्धौ तेभ्यश्चापि सदैवतः (१) ॥१६२ मातरः प्रथमं पूज्याः पितरश्च ततः परम् । मातामहश्च तदनु वृद्धिश्राद्ध त्वयं क्रमः ||११३ पार्वणानि मयोक्तानि विपरीतानि तानि ते । अथर्वणास्तर्पयन्ति तद्वेदोक्तमतं यथा ॥ १६४ अतिथि श्राद्धरक्षार्थमते (न्ते) विष्णुस्वरूपिणम् । निवेशये वि ( द्विष्णुसमं ब्राह्मणं वेदपारगम् ॥१६५ कव्यवाहादयो येऽमी विद्यन्ते ये च पूर्वजाः । सर्वेषामेव वर्णानां श्राद्ध तृप्यन्ति देवताः ॥ १६६ साक्षाद्विष्णुर्धर्मराजः श्राद्धदेवश्च कथ्यते । विश्वे देवाः पितृतिथिः सवं विष्णुरिति स्मृतम् ॥१६७ पूर्वजास्तुष्टिनायान्ति दाता भोक्ता न संशयः ॥ १६८ इति प्रजापतिस्मृतिः समाप्ता । ॐ तत्सत्
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy