________________
१६८०
प्रजापतिस्मृतिः ।
पौर्णमास्यादिसंयोगे योऽधिकुर्यान्महालयम् । पिण्डदाननिषिद्ध ऽपि न निषिद्ध कदाचन ॥ १६६ महालये त्रयोदश्यां भवेद्यदि पितुर्दिनम् । पिण्डदानं विप्रभोज्यं श्राद्धं तत्स्याद्गयासमम् ॥१६७ पक्षश्राद्ध वा पञ्चमीप्रभृती (ति) स्यान्महालये । पितुः पितामहस्याप्य (पि) प्रपितामहमृद्दिने || १६८ कालो ह्यनन्तरूपस्तु कालो वै परमेश्वरः । तस्मात्काले प्रसन्नेन कर्तव्यं कर्म निश्चितम् ॥१६६ गर्भस्थोऽपि [च] दौहित्रो अश्वयुक्प्रतिपहिने | कुर्यान्मातामह श्राद्धं पितरौ यदि जीवतः || १७० आश्वप्रतिपदि श्राद्धं नन्दीश्राद्धवदिष्यते ( ? ) । नात्यं सपाकशुद्धिः (?) स्यादा मध्याह्नाद्विशिष्यते ॥ १७१ सूतकादिनिमित्तेन द्रव्याभावादिभेदतः । स्थितं महालयं कुर्याद्यावद्वश्चिकदर्शनम् ॥ १७२ कन्यागते सवितरि पितरो यान्ति वै गुरु [गृह]म् । तिष्ठन्त्याकाङ्क्षिणस्तावद्यावद्वृश्चिकदर्शनम् ॥ १७३ कन्दमूलफलैर्वाऽपि कर्तव्यं पितृतर्पणम् । अन्यथा दारुणं शापं दत्त्वा यान्ति बुभुक्षिताः ॥ १७४ एकोद्दिष्टं तु मध्याह्न दिवसस्य विधीयते ।
मुहूर्ता] मस्य पिण्डदानं च भोजनम् ॥१७५ पितृक्षयाहे संप्राप्ते यदि कश्चिन्महालयः । तदा क्षयाहः कर्तव्योऽपरेऽहनि महालयम् [यः ] ॥१७६