________________
श्राद्धकालाभिधानवर्णनम्। १६७४ अथ(थ) शब्दस्तु रवि भागे जव्यान्ते राजवर्जिते (१) । वाजं देयं प्रयत्नेन कथि (अर्थि)भ्यो वनमिश्रितम् ॥१५५ त्रिमुहूर्तस्तु प्रातः स्यात्तावानेव तु संगवः । मध्याह्नस्त्रिमुहूर्तः स्यादपराह्नस्तथैव च ॥१५६ सायं तु त्रिमुहूर्तः स्यात्पञ्चधी काल उच्यते ! अतोऽपराह्नः पूर्वेषां भोज्यकाल उदाहृतः ॥१५७ आरम्भं कुतपं(पे) कुर्याद्रौहिणं तु न लङ्घयेत् । एतत्पञ्चमुहूर्तान्तः श्राद्धकाल उदाहृतः॥१५८ मुहूर्तास्तत्र विज्ञेया दश पञ्च च सर्वदा। तत्राष्टमो मुहूर्वो यः स कालः कुतपः स्मृतः॥१५६ विवृद्धा यत्र पुरतः कुतपस्पर्शिनी तिथिः। श्राद्ध सांवत्सराङ्क च निर्णयोऽयं कृतः सदा ॥१६० आषाढ्याः पञ्चमे पक्षे यान्यहानि तु षोडश । ऋतुभिस्तानि तुल्यानि तेषु दत्तं महाफलम् ॥१६१ चतुर्दश्यां समारम्भः पौर्णमासादि पार्वणः । प्रातरन्तमजस्रं स्यादस्यान्तः पार्वणो विधिः॥१६२ ब्राह्मान्मुहूर्तादारभ्य कुर्यान्मासार्धयामतः। श्राद्धं महालयं नाम तत्तु तीर्थवदाचरेत् ॥१६३ पक्षेऽपरे च भरणी महती सा प्रकीर्तिता। तस्यां श्राद्धं प्रकुर्वीत गयाश्राद्धसमं फलम् ॥१६४ नन्दायां भार्गवदिने मप्रा(घा)सु च युगादिषु । पिण्डपातं प्रकुर्वीत ज्येष्ठपुत्रो विनश्यति ॥१६५