________________
१६७८
प्रजापतिस्मृतिः। विना श्राद्धं विना यज्ञं मधुपर्कविधि विना । पापी स्यात्स्वार्थतः कुर्वञ्जीवघातं बलिं विना ॥१४४ न जीवेन विना तृप्तिर्जीवस्यापि हि सर्वदा । अतः ससर्ज भगवाञ्जीवो जीवेन हिंस्यते ॥१४५ प्रवृत्तिर्व(त्ति व)चनात्कुर्वनिवृत्तिर(म)पि कर्मणाम् । एवं व्यवहरेन्नित्यं गृहस्थोऽपि हि मुच्यते ॥१४६ न प्रवृत्तः पुण्यहानिस्तन्निवृत्तमैहल्फलम् । तदा दातव्यं धर्म धर्मकारुण्यसंश्रयः(यैः)॥१४७ कारुण्यं प्राणिषु प्रायः कर्तव्यं पुण्यहेतवे । अहिंसा परमो धर्मस्तस्मादात्मवदाचरेत् ॥१४८ यज्ञेषु पशुहिंसायां सावर्णिव्यवसायवत् । फलं सहस्रगुणितं हिंस्यो राजा भवेदनु ॥१४६ कारुण्यात्सर्वभूतेषु आत्मवंतः सतः सतः। उक्तकर्मसु सर्वत्र तदामांसनिषेधनम् ।।१५० मद्यमप्यान(प्यम)तं श्राद्ध कलौ तत्तु विवर्जयेत् । मांसान्यपि हि सर्वाणि युगधर्मक्रमाद्भवेत् ॥१५१ अतो माखा(षा)नमेवैतन्मांसार्थे ब्रह्मणा कृतम् । पितरस्तेन तृप्यन्ति श्राद्धं कुर्वा)न्न तद्विना ॥१५२ यथा बलिष्ठं मांसत्वान्माखा(पा)न्नपि तत्समम् । सौगन्धिकं च स्वादिष्ठं मधुरं द्रव्यभेदतः॥१५३ भक्ष्यं भक्ष्यविधौ यत्त गर्हितं तद्विवर्जयेत् । अभक्ष्यमपि भक्ष्यं स्याद्देशधमण वै मुने ॥१५४