________________
श्राद्ध त्याज्यवस्तु वर्णनम् ।
पायसं शूद्रतो ग्राह्यं यद्यम्बुरहितं भवेत् । नव्यमृत्पात्रपक्वं चेत्पित्रर्थेऽपि न दुष्यति ॥ १३४ पायसं सक्तवो धानास्तिलपिष्टं तथौषधम् । साम्बून्येतानि गृह्णीयादपि शूद्रान्न दुष्यति ॥ १३५ क्रीतं विप्रघृतं नीत्वा यदि विप्रांश्च भोजयेत् । दाता भोक्ता च विक्रेता पूर्वजाश्च पतन्ति ते ॥ १३६ लावण्य ( क्य) तित्तिरिशकुन्तकपिञ्जलानां
१६७७
भारण्डसारसमसू(यू)र[क]वी (की)रकाण (णाम्) । धूम्यारकारिकुटरीदहनाटभार
द्वा [जा] ख्यलाटशि (कुर ?)रीकिकिदीविकानाम् ॥१३७
सारङ्गशम्बरवराहककृष्णसार
शशसानि (शाशानि ) दुर्लभतमानि सदा पितॄणाम् ॥ १३८ खङ्गमांसैयदा पिण्डान्कुर्याद्वा भोजयेद्विजान् । तदा भवति पूर्वेषां तृप्तिर्द्वादशवार्षिकी ॥ १३६ खड्गास्थि यदि विद्येत श्राद्धकाले समीपगम् । गयाश्राद्ध ेन सा तृप्तिः पितॄणां सा भवेत्तदा || १४० कथयन्तीति पितरः कुले कश्चिद्भविष्यति । यः खड्गमांसपिण्डांश्च कुर्याद्वा पितृभोजनम् ॥१४१ कूर्चलो विलमण्डच गोधा ककृपजाहकः (१) । पञ्च पञ्चनखा ह्येते दुर्लभाः श्राद्धकर्मणि ॥ १४२ व्याघेभ्यो मेध्यमांसानि ग्राह्याणि द्रव्यपर्ययैः । पित्रथं स्वगृहे हिंसन्खादन्मांसं न पापभाक् ॥१४३