________________
१६७६
प्रजापतिस्मृतिः। कर्कोटकं कारवेल्लं सूरागं मृष्टपिण्डिकाः। .. कोटिभण्टं तत्त्रिविधं निशाचिह्नी च वासुकः (१) ॥१२३ मरीचं हिङ्गु तैलानि सद्व्याण्यविदाहि च । श्राद्ध ध्वेतानि मुख्यानि तथा लवणजीरकैः ।।१२४ गवां क्षीरं दधि घृतं क्षौद्रभिक्षुरसं तथा । शर्करा गुडमत्स्यण्डी तथा मृष्टफलानि च ॥१२५ श्यामाकान्कोद्रवान्कशून्कलञानराजमाषकान् । निष्पावकान्कदम्बानि वर्जयेच्छाद्धकर्मणि ॥१२६ कलिङ्गं चैव वृन्ताकं कूष्माण्डं रक्तनीलकम् । हस्तीमुण्डफलं मयंमलाबु च तुषाम्रकम् ॥१२७ करीरज कुमारीजं सार्ष राजिकोद्भवम् । . वर्जयेपितृकार्येषु वल्लकौसुम्भपपरौ ॥१२८ क्षीरं दधि घृतं तक्रमविच्छागसमुद्भवम् ।। माहिषं च दधि क्षीरं श्राद्ध वज्यं प्रयत्नतः ॥१२६ माहिषं मृतवत्सागोः सूतिकागोश्च वर्जयेत् (१) ।।१३० मिश्रितं धेनुपयसा सापत्यमहिषीपयः। मेध्यमभ्युक्षितं गा(घ)तद्गायत्र्या सर्वकर्मसु ॥१३१ :रं कठिनपक्वं स्याह्याघसं स्याद्विलेपकम् । पीशी(रोद्रवरूपं तत्क्षीरे यन्त्रिविधामता (?) ॥१३२ पिरमानवदेवानां पाशीरक्षीरपायसः (१) । जायते परमा तृप्तिः समध्वाज्यैः सशर्करैः ॥१३३