________________
ब्राह्मण निमन्त्रणम् श्राद्धाई ब्राह्मणानां निरूपणम् ।
ब्रह्मकर्मरता: शान्ता अपापा अग्निसंश्रिताः । कर्मनिष्ठास्तपोनिष्ठा वेदार्थज्ञाः कुलोद्भवाः ||७० मातृपितृपराश्चैव ब्राहृम्यै ( झ ) वृत्त्युपजीविनः । अध्यापको ब्रह्मविदो ब्राह्मणाः श्राद्धसंपदि ॥७१ स्वकीयशाखिनो मुख्याः श्राद्धे वे द्विदां वर ! | पङ्क्तिपावनाः सर्वेषामेको वै सामविद्भवेत् ॥७२
गुरुश्वशुरजामातृदौहित्रभगिनीसुताः ।
आसनार्हाः पितृश्राद्ध योग्याः पूज्याश्च मातुलाः ॥७३ भार्या रजस्वला यस्य हृता त्यक्त्वा दिवं गता । अश्राद्धार्हाः सर्वध्यास्य मृतनुकं गर्भदूषिता (!) ॥७४ योsभार्यः सन्बलं चेतः संयम्याविधरो भवेत् । क्रियापरः श्रुतेर्वेत्ता श्राद्धे वै भोजयेत्पितुः ॥७५ श्रुतिज्ञं कुलजं शान्तं प्रजावन्तं जितेन्द्रियम् । मृतभार्यमपि श्राद्ध भोजयेदविशङ्कितः ॥७६ अप्रजो मृतपत्नीकः सर्वकर्मसु गर्हितः । छन्दो विनाऽपि न स्थेयं दिनमेकं विनाऽऽश्रमम् ॥७७ यस्य पुत्राः सदाचाराः श्रुतिज्ञा धर्मसंमुखाः । पितृभक्तिरता दान्ता न वैधव्यं (धुयं ) मृतस्त्रियि ॥७८ तुरीये धाम्नि यस्तिष्ठेत्संधौ मध्यनिशि क्षणम् । अनार्योऽप्यनपत्योऽपि श्राद्ध पुण्यैरवाप्यते ॥७६ षोडशाब्दात्परं श्राद्ध विप्राणां सप्तसप्तकैः । भोजयेत्पितृकार्यार्थे ततोऽन्यान्देवकर्मणि ।
१६०१