________________
१६६६
प्रजापतिस्मृतिः। निरस्य शुक्रवाक्यानि(णि) सिद्धान्तस्मृतिनिश्चयम् । श्राद्धकल्पस्य वक्ष्येऽहं भक्त्या तुष्टो रुचे तव ॥१५ त्वया पृष्टं कदा श्राद्धं रुचे प्रम्लोचया सह ।
शृणु संक्षेपतो वच्मि कालकर्ता ह्यनुक्रमात् ॥१६ वृद्धौ क्षयेऽह्नि ग्रहणे युगादौ महालये श्राद्धममासु तीर्थे ।
सूर्यक्रमे पर्वसु वैधृतौ च रुचौ व्यतीपातगतेऽष्टकासु ॥१७ द्रव्यस्य संपत्सु मुन्यं (नी)न्द्रसङ्गे काम्येषु मन्वादिषु सद्बते स्यात् । छायासु मातंगभवासु नित्यं श्राद्धस्य कालः स च सर्वदोक्तः ॥१८
वृद्धौ प्राप्ते च यः कुर्याच्छ्राद्धं नान्दीमुखं पुमान् ।
तस्याऽऽरोग्यं यशः सौख्यं विवर्धन्ते धनप्रजाः ॥१६ श्राद्धं कृतं येन महालयेऽस्मिन्पित्रोः क्षयाहे ग्रहणे गयायाम्। किमश्वमेधैः पुरुषैरनेकैः पुण्यैरिमैरन्यतमैः कृतः किम् ॥२०
दर्शश्राद्धं च यः कुर्याद् ब्राह्मणैर्ब्रह्मवादिभिः। पितरस्तेन तुष्टा वै प्रयच्छन्ति यथेप्सितम् ।।२१ माघे पञ्चदशी कृष्णा नभस्ये च त्रयोदशी।
तृतीया माधवे शुक्ला नवम्यूर्जे युगादयः॥२२ भाद्रे कलिापरे चैव माघे त्रेतातृतीया नवमी कृते च । युगादयः पुण्यतमा इमाश्च दत्तं पितृणां किल चाक्षयं स्यात् २३ यावदायाति तत्पर्व वर्धते द्विगुणक्रमम् । दिने दिनेऽखिलं दानं दत्तं वैधृतपर्वणि ॥२४ संक्रान्तौ च व्यतीपाते मन्वादिषु युगादिषु । श्रद्धया स्वल्पमात्रं च दत्तं कोटिगुणं भवेत् ।।२५