SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रकरणवर्णनम् । १६६५ तथाऽप्यसंशयापन्नं क्रियमाणविधि वद । येन विज्ञानमात्रेण न मुह्येऽहं कदाचन ॥५ चतुर्णामपि वेदानां शाखाः सन्ति सहस्रशः। अज्ञानादल्पशास्त्रार्था मोहयन्ति पदे पदे ॥६ " कस्मिन्काले च कर्तव्यं कर्ता श्राद्धस्य कीदृशः। द्रव्यं देशः पाककर्ता कदा विप्रानिमन्त्रयेत् ॥७ ब्राह्मणाः कीदृशास्तत्र नियमास्तत्र कीदृशाः । श्राद्धोपहारपात्राणि भक्ष्यं तत्कालदेवता ॥८ ततः श्राद्धेषु के मन्त्राः पदार्थादिक्रमः कथम् । आसनावाहनान्योऽग्नौ होमः पात्रा(त्र)लम्भनम् ।। विप्रभोज्यं पिण्डदानं क्षमापनविधिक्रमम् । श्वदेवं भृत्यभोज्यं वद सायंतनं विधिम् ॥१० ब्रह्मोवाचपितरस्तव तुष्टा वै रुचे शृणु महामते । मालिन्यां रोच्यनामा वै त्वत्तः पुत्रो भविष्यति ॥११ नदी तर्तुमनाः पारं पराचारस्य विवि)त्ति कम्(कः)। त(क)ल्पशास्त्र(स्त्राणि)स्मृतयः श्राद्धकल्पा बुधैर्द्विजाः(कृताः)॥ ममापि संशयस्तत्र श्राद्धकल्पाम्बुधौ रुचे । तथाऽपि शास्त्राण्यालोच्य वक्ष्ये निःसंशयं वचः॥१३ शास्त्रनिष्ठः शुक्रवाक्यैर्मुह्यन्ति द्विजसत्तमाः। भवन्ति बलिनस्तस्माद्राक्षसा बलहारिणः ॥१४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy