________________
१६५६
बलान्म्लेच्छैनीतानां स्त्रीणां विषये प्रायश्चित्तम् । न कृतं मैथुनं ताभिरभक्ष्यं नैव भक्षितम् । शुद्धिस्तदा त्रिरात्रेण म्लेच्छान्नेनैव भक्षिते ॥३६ रजस्वला यदा स्पृष्टा म्लेच्छेनान्येन वा पुनः। त्रिरात्रमुषिता स्नात्वा पञ्चगव्येन शुध्यति ॥४० स्पृष्टा रजस्वलाऽन्योन्यं ब्राह्मणी क्षत्रिया तथा । त्रिरात्रेण विशुद्धिः स्याहवलस्य वचो यथा ॥४१ स्पृष्टा रजस्वलाऽन्योन्यं ब्राह्मणी शुद्जा तथा। पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥४२ ब्राह्मण्यनशनं कुर्यात्क्षत्रिया स्नानमाचरेत् । सचैलं वैश्यजातीनां नक्तं शूद्रे विनिर्दिशेत् ॥४३ म्लेच्छान्नं म्लेच्छसंस्पर्शो म्लेच्छेन सह संस्थितिः । वत्सरं वत्सरादूवं त्रिरात्रेण विशुध्यति ॥४४ म्लेच्छह तानां चौरैर्वा कान्तारेषु प्रवासिनाम् । भुक्त्वा भक्ष्यमभक्ष्यं वा क्षुधार्तेन भयेन वा ॥४५ पुनः प्राप्य स्वकं देशं चातुर्वर्ण्यस्य निष्कृतिः। कृच्छ्रमेकं चरेद्विप्रस्तदध क्षत्रियश्चरेत् । पादोनं च चरेद्वैश्यः शूद्रः पादेन शुष्यति ॥४६ गृहीता स्त्री बलादेव म्लेच्छगुर्वीकृता यदि । गुर्वी न शुद्धिमाप्नोति त्रिरात्रेणेतरा शुचिः॥४७ योषा गर्भ विधत्ते या म्लेच्छात्कामादकामतः । ब्राह्मणी क्षत्रिया वैश्या शूद्रा वर्णेतरा च या ॥४८