________________
१६६०
देवलस्मृतिः। अभक्ष्यभक्षणं कुर्यात्तस्याः शुद्धिः कथं भवेत् । कृच्छ्रे सांतपनं शुद्धि तैयोंनेश्च पाचनम् ॥४६ असवर्णेन यो गर्भः स्त्रीणां योनौ निषिच्यते । अशुद्धा सा भवेन्नारी यावच्छल्यं न मुञ्चति ॥५० विनिःसृते ततः शल्ये रजसो वाऽपि दर्शने । तदा सा शुध्यते नारी विमलं काञ्चनं यथा ॥५१ स गर्भो दीयतेऽन्यस्मै स्वयं प्राह्यो न कहिंचित् । स्वजातौ वजयेद्यस्मात्संकरः स्यादतोऽन्यथा ॥५२ गृहीतो यो बलात्म्लेच्छः पञ्च षट् सप्त वा समाः। दशादि विंशतिं यावत्तस्य शुद्धिविधीयते ॥५३ प्राजापत्यद्वयं तस्य शुद्धिरेषा विधीयते । अतः परं नास्ति शुद्धिः कृच्छमेव सहोषिते ॥५४ म्लेच्छः सहोषितो यस्तु पञ्चप्रभृति विंशतिः । वर्षाणि शुद्धिरेषोक्ता तस्य चान्द्रायणद्वयम् ॥५५ कक्षागुह्यशिरःश्मश्रुभ्र लोमपरिकृन्तनम्। प्राहृत्य पाणिपादानां नखलोम ततः शुचिः॥५६ यो दातुं न विजानाति प्रायश्चित्तं द्विजोत्तमः । शुद्धिं ददाति नान्यस्मै तदशुद्धः स भोजनम् ॥५७ सभायां स्पर्शने चैव म्लेच्छेन सह संविशेत् । कुर्यात्स्नानं सचैलं तु दिनमेकमभोजनम् ॥५८ माता म्लेच्छत्वमागछेपितरो वा कथंचन । असूतकं च नष्टस्य देवलस्य वचो यथा ॥५६