________________
१६५८
देवलस्मृतिः। पादोनं क्षत्रियस्योक्तमध वैश्यस्य दापयेत् । प्रायश्चित्तं द्विजस्योक्तं पादं शूद्रस्य दापयेत् ॥२८ प्रायश्चित्तावसाने तु दोग्ध्री गौर्दक्षिणा मता। तथाऽसौ तु कुटुबान्ते झुपविष्टो न दुष्यति ॥२६ अशीतिर्यस्य वर्षाणि बालो वाऽप्यूनषोडशः । प्रायश्चित्ताधमर्हन्ति स्त्रियो रोगिण एव च ॥३० ऊनैकादशवर्षस्य पश्चवर्षात्परस्य च । प्रायश्चित्तं चरेद्माता पिता वाऽन्योऽपि वर्धिता ॥३१ स्वयं व्रतं चरेत्सर्वमन्यथा नैव शुध्यति । तिलहोमं प्रकुर्वीत जपं कुर्यादतन्द्रितः ॥३२ संलापस्पर्शनिःश्वाससहयानासनाशनात् । याजनाध्यापनाद्यौनापापं संक्रमते नृणाम् ॥३३ याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम् । कृत्वा सद्यः पतत्येव पतितेन न संशयः ॥३४ संवत्सरेण पतति पतितेन सहाऽऽचरन् । याजनासनयज्ञादि कुर्वाणः सार्वकामिकम् ॥३५ अतः परं प्रवक्ष्यामि प्रायश्चित्तमिदं शुभम् । स्त्रीणां म्लेच्छश्च नीतानां बलात्संवेशने कचित् ॥३६ ब्राह्मणी क्षत्रिया वैश्या शूद्रा नीता यदाऽन्त्यजैः । ब्राह्मण्याः कीदृशं न्याय्यं प्रायश्चित्तं विधीयते ॥३७ ब्राह्मणी भोजयेन्म्लेच्छमभक्ष्यं भक्षयेद्यदि । पराकेण ततः शुद्धिः पादेनोत्तरतोत्तरान् (दानेनोत्तरोत्तरा)