________________
प्रायश्चित्तवर्णनम् ।
बलाद्दासीकृता ये च म्लेच्छचाण्डालदस्युभिः । अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् ॥१७ उच्छिष्टमार्जनं चव तथा तस्यैव भोजनम् । खरोष्ट्रविड्वराहाणामामिषस्य च भक्षणम् ॥१८ तत्स्त्रीणां च तथा सङ्गं ताभिश्च सह भोजनम् । मासोषिते द्विजातौ तु प्राजापत्यं विशोधनम् ॥ १६ चान्द्रायणं त्वाहिताग्नेः पराकस्त्वथ वा भवेत् । चान्द्रायणं पराकं च चरेत्संवत्सरोषितः ||२० संवत्सरोषितः शूद्रो मासाधं यावकं पिबेत् । मासमात्रोषितः शूद्रः कृच्छ्रपादेन शुध्यति ॥२१ ऊर्ध्वं संवत्सरात्कल्प्यं प्रायश्चित्तं द्विजोत्तमैः । संवत्सरैश्चतुर्भिश्च तद्भावमधिगच्छति ॥ २२ हासो न विद्यते यस्य प्रायश्चित्तं दुरात्मनः । गुह्यकक्ष शिरोणां कर्तव्यं केशवापनम् ॥२३ प्रायश्चित्तं समारभ्य प्रायश्चित्तं तु कारयेत् । स्नानं त्रिकालं कुर्वीत धौतवासा जितेन्द्रियः ॥२४ कुशहस्तः सत्यवक्ता देवलेन ह्युदाहृतम् । वत्सरं वत्सराधं वा मासं मासार्धमेव वा ॥ २५ बलान्म्लेच्छैस्तु यो नीतस्तस्य शुद्धिस्तु कीदृशी । संवत्सरोषिते शूद्रे शुद्धिश्चान्द्रायणेन तु ||२६ पराकं वत्सरार्धे च पराकार्थं त्रिमासिके । मासिके पादकृच्छ्रश्च नखरोमविवर्जितः ॥ २७
१६५७