________________
१६५१
ऽध्यायः] दानधर्म प्रकरणे सत्पात्रनिरूपण वर्णनम् ।
किश्चिद्वेदमयं पात्रं किञ्चित् पात्रं तपोमयम् । पात्राणामुत्तमं पात्रं शूद्रानं यस्य नोदरे ॥३२ यस्य चैव गृहे मूों दूरे चाऽपि गुणान्वितः। गुणन्विताय दातव्यं नास्ति मूर्ख व्यतिक्रमः ॥३३ देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥३४ ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते । ज्वलन्तममिसुत्सृज्य न हि भस्मनि हूयते ॥३५ सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् । भोजने चैव दाने च हन्यात्रिपुरुषं कुलम् ॥३६ यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । यश्च विप्रोऽनधीयानत्रयस्ते नामधारकाः ॥३७ ग्रामस्थानं यथा शून्यं यथा कूपश्च निर्जलः। यश्च विप्रोऽनधीयानत्रयस्ते नामधारकाः ॥३८ ब्राह्मणेषु च यद्दत्तं यच्च वैश्वानरे हुतम् । तद्धनं धनमाख्यातं धनं शेषं निरर्थकम् ॥३६ सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । सहस्रगुणमाचार्य हनन्तं वेदपारगे ॥४० ब्रह्मबीजसमुत्पन्नो मन्त्रसंस्कारवर्जितः । जातिमात्रोपजीवी च स भवेद् ब्राह्मणः समः ॥४१ गर्भाधानादिभिर्मन्त्रैर्वेदोपनयनेन च । नाध्यापयति नाधीते स भवेद् ब्राह्मणब्रुवः ॥४२