SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] दानधर्मप्रकरणवर्णनम् । १६४६ यत्फलं कपिलादाने कार्तिक्या ज्येष्ठपुष्करे। तत्फलं ऋषयः(पाण्डव)श्रेष्ठा विप्राणां पादशौ(ध)चने ॥१० स्वागतेनाग्नयः प्रीता आसनेन शतक्रतुः । पितरः पादशौचेन अन्नाद्यन प्रजापतिः ॥११ मातापित्रोः परं तीथं गङ्गा गावो विशेषतः । ब्राह्मणात् परमं तीथं न भूतं न भविष्यति ॥१२ इन्द्रियाणि वशीकृत्य गृह एव वसेन्नरः। तत्र तस्य कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥१३ गङ्गाद्वारञ्च केदारं सन्निहत्यां तथैव च । एतानि सर्वतीर्थानि कृत्वा पापैः प्रमुच्यते ॥१४ वर्णानामाश्रमाणाञ्च चातुर्वर्णस्य (पार्थिव) भो द्विजाः । दानधर्म प्रवक्ष्यामि यथा व्यासेन भाषितम् ॥१५ यहदाति विशिष्टेभ्यो यच्चाश्नाति दिने दिने । तच वित्तमहं मन्ये शेषं कस्याभिरक्षति ॥१६ यद्ददाति यदश्नाति तदेव धनिनो धनम् । अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ॥१७ किं धनेन करिष्यन्ति देहिनोऽपि गतायुषः । यद्वर्द्धयितुमिच्छन्तस्तच्छरीरमशाश्वतम् ॥१८ अशाश्वतानि गात्राणि विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥१६ यदि नाम न धर्माय न कामाय न कीर्तये । यत्परित्यज्य गन्तव्यं तद्धनं किं न दीयते ॥२०
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy