SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ १६४६ व्यासस्मृतिः । स्ववृत्तयोपार्जितं मेध्यम केशकृमिमक्षिकम् । अश्वलीढप्रगोघ्रातमस्पृष्टं शूद्रवायसैः ॥५१ अनुच्छिष्टमसंदुष्टम पर्युषितमेव च । अम्लानवाष्पमन्नाद्यमद्यान्नित्यं सुसंस्कृतम् ॥५२ कृसरापूपसंयावपायसं शष्कुलीति च । नाश्नीयाद् ब्राह्मणो मांसमनियुक्तः कथञ्चन ॥५३ क्रतौ श्राद्ध े नियुक्तो वा अनश्नन् पतति द्विजः । मृगयोपार्जितं मांसमभ्यर्च्य पितृदेवताः ॥ ५४ क्षत्रियो द्वादशोनं तत् क्रीत्वा वैश्योऽपि धर्मतः । द्विजोजग्ध्वा वृथामांसं हत्वाऽप्यविधिना पशून् ॥५५ निरयेष्वक्षयं वासमाप्नोत्याचन्द्रतारकम् । सर्वान् कामान् समासाद्य फलमश्वमखस्य च ॥५६ मुनिसाम्य मवाप्नोति गृहस्थोऽपि द्विजोत्तमः । द्विजभोज्यानि गव्यानि महिषाणि पयांसि च ।।५७ निर्द्दशासन्धिसम्बन्धिवत्सवन्तीपयांसि च । अलावुशिनुकवक च्छत्राकलशुनानि च । पलाण्डुश्वेतवृन्ताकरक्तमूलकमेव च ॥ ५८ गृञ्जनारुणवृक्षाग्जन्तुगर्भ फलानि च । अकालकुसुमादीनि द्विजोजम्ध्वेन्दवं चरेत् ॥५६ वाग्दूषितमविज्ञातमन्यपीड़ित कार्य्यपि । [ तृतीयो भूतेभ्योऽन्नमदवा च तदन्नं गृहिणो दहेत् || ६० हेमराज तकांस्येषु पात्रेष्वथात् सदा गृही । तदभावे साधुगन्ध (मेध्य) लोध्रद्रुमलतासु च ॥ ६१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy