SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] तर्पणविधि वर्णनम् । १६४३ वस्त्रनिष्पीड़नाम्भोभिस्तेषामाप्यायनम्भवेत् । अतर्पितेषु पितृषु वस्त्रं निष्पीड़येच्च यः॥२० निराशाः पितरस्तस्य भवन्ति सुरमानुषैः। पयोदर्भस्वधाकारगोत्रनामतिलेभवेत् ।।२१ सुदत्तं तत्पुनस्तेषामेकेनापि वृथा विना । अन्यचित्तेन यहत्तं यद्दत्तं विधिवर्जितम् ॥२२ अनासनस्थितेनापि तज्जलं रुधिरायते । एवं सन्तर्पिताः कामैस्तर्पकांस्तर्पयन्ति च ॥२३ ब्रह्मविष्णुशिवादित्यमित्रावरुणनामभिः । पूजयेल्लक्षितैर्मन्त्रौर्जलमन्त्रोक्तदेवताः ॥२४ उपस्थाय रवेः काष्ठां पूजयित्वा च देवताः । ब्रह्माग्नीन्द्रौषधीजीवविष्णुनामहतांहसाम् ॥२५ अपां यत्तेति सत्कार्य नमस्कारैः स्वनामभिः । कृत्वा मुखं समालभ्य स्नानमेवं समाचरेत् ॥२६ : ततः प्रविश्य भवनमावसथ्ये हुताशने । पाकयज्ञाश्च चतुरो विदध्याद्विधिवद् द्विजः ॥२७ अनाहितावसथ्याग्निरादायान्नं घृतप्लुतम् । शाकलेन विधानेन जुहुयांल्लौकिकेऽनले ॥२८ व्यस्ताभिर्व्याहृतीभिश्च समस्ताभिस्ततः परम् । षड्भिर्देवकृतस्येति मन्त्रवद्भिर्यथाक्रमम् ॥२६ प्राजापत्यं स्विष्टकृतं हुत्वैवं द्वादशाऽऽहुतीः । ओङ्कारपूर्वः स्वाहान्तस्त्यागः स्विष्टविधानतः ॥३० भुविदर्भान् समास्तीर्य बलिकर्म समाचरेत् । विश्वेभ्योदेवेभ्य इति सर्वेभ्यो भूतेभ्य एव च ॥३१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy