________________
१६४२
व्यासस्मृतिः ।
इतिहासपुराणानां वेदोपनिषदां द्विजः । शक्त्या सम्यक् पठेन्नित्यमल्पमप्यासमापनात् ॥ १० स यज्ञदानतपसामखिलं फलमाप्नुयात् । वेदेभ्योऽन्यत्र संतुष्टः स विप्रः शूद्रतामियात् । तस्मादहरहर्वेदं द्विजोऽधीयीत वाग्यतः ||११ धर्मशास्त्रेतिहासादि सर्वेषां शक्तितः पठेत् । कृतस्वाध्यायः प्रथमं तर्पयेच्चाथ देवताः ॥१२ जान्वा च दक्षिणं दर्भेः प्रागः सयवैस्तिलैः । पुरः क्षिप्तैः कराग्राभ्यां निर्गतैः प्राङ्मुखो द्विजः । एकैकाञ्जलिदानेन प्रकृतिस्थोपवीतकः ॥ १३ समजानुद्वयो ब्रह्मसूत्रहार उदङमुखः । तिर्य्यग्दभैश्च वामायैर्यवैस्तिलविमिश्रितैः ॥१४ अम्भोभिरूत्तरक्षिप्तः कनिष्ठा मूलनिर्गतैः । द्वाभ्यां द्वाभ्यामञ्जलिभ्यां मनुष्यांस्तर्पयेत्ततः ॥ १५ दक्षिणाभिमुखः सव्यं जान्वा च द्विगुणैः कुशैः । तिलैर्जलैश्च देशिन्या मूलदर्भाद्विनिःसृतैः ॥१६ दक्षिणांसोपवीतः स्यात् क्रमेणाञ्जलिभिस्त्रिभिः । सन्तर्पयेद्दिव्यपितृ स्तत्परांश्चं पितॄन् स्वकान् ॥१७ स्वधा वर्जन्यमानेवमेक इच्छन्ति तर्पणे । द्विजतिजीवत्पितृको ऽत्येतानन्यश्च तर्पयेत् ॥ तर्पयेद्दिव्य पितृश्च पितृपूर्वान्पितृन्स्वकान् । मातृमातामहांस्तद्वत्त्रीनेवं हि त्रिभिस्त्रिभिः । मातामहाश्व येऽप्यन्ये गोत्रिणो दाहवर्जिताः ॥ १८ तानेकाञ्जलिदानेन तर्पयेच पृथक् पृथक् । असंस्कृतप्रमीता ये प्रेतसंस्कारवर्जिताः ॥१६
[ तृतीयो