________________
ऽध्यायः] स्त्रीणां नित्यकर्म,सपातिव्रत रजस्वलाधर्म निरूपणश्च १६३६
सर्वैरलक्षिता शीघ्रं लज्जिताऽन्तर्गृहे वसेत् । एकाम्बरावृता दीना स्नानालङ्कारवर्जिता ॥३८ मौनिन्यधोमुखी चक्षुष्पाणिपद्भिरचञ्चला। . अश्नीयात् केवलं भक्तं नक्तं मृण्मयभाजने ॥३६ स्वपेद्भूमावप्रमत्ता क्षपेदेवमहस्त्रयम् । स्नायीत सा त्रिरात्रान्ते सचैलमुदिते रवौ ॥४० विलोक्य भर्तुर्वदनं शुद्धा भवति धर्मतः। कृतशौचा पुनः कर्म पूर्ववच्च समाचरेत् ।।४१ रजोदर्शनतो याः स्यू रात्रयः षोडशर्तवः । ततः पुंबीजमाक्लिष्टं शुद्ध क्षेत्रे प्ररोहति ॥४२ चतस्रश्वाऽऽदिमा रात्रीः पर्ववच्च विवर्जयेत् । गच्छेद्युग्मासु रात्रीषु पोष्णपित्रह्मराक्षसान् ।।४३ प्रच्छादितादित्यपथे पुमान् गच्छेत् स्वयोषितः । क्षामाऽलङ्घदवाप्नोति पुत्रं पूजितलक्षणम् ॥४४ मृतुकालेऽभिगम्यैवं ब्रह्मचर्ये व्यवस्थितः । गच्छन्नपि यथाकामं ने दुष्टः स्यादनन्यकृत् ॥४५ . भ्रूणहत्यामवाप्नोति भृतौ भार्यापराङ्मुखः। सा त्ववाप्याऽन्यतो गर्भ त्याज्या भवति पापिनी ॥४६ महापातकदुष्टा च पतिगर्भविनाशिनी। सवृत्तचारिणी पत्नी त्यक्त्वा पतति धर्मतः॥४७ महापातकदुष्टोऽपि नाप्रतीक्ष्यस्तया पतिः। अशुद्ध क्षयमादूरं स्थितायामनुचिन्तया ॥४८