SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ १६३६ व्यासस्मृतिः। [द्वितीयोब्राह्मोद्वाहविधानेन तदभावेऽपरो विधिः । दातव्यैषा सदृक्षाय वयोविद्यान्वयादिभिः ।।५ पितृतपितृभ्रातृषु पितृव्यज्ञातिमात्रषु । पूर्वाभावे परो दद्यात् सर्वाभावे स्वयं ब्रजेत् ॥६ यदि सा दातृवैकल्याद्रजः पश्येत् कुमारिका । भ्रूणहत्याश्च यावत्यः पतितः स्यात्तदप्रदः ॥७ तुभ्यं दास्याम्यहमिति ग्रहीष्यामीति यस्तयोः । कृत्वा समयमन्योन्यं भजते न स दण्डभाक्॥८ त्यजन्नदुष्टां दण्ड्यः स्यादृषयंश्चाप्यदूषिताम् । तावन्न दुष्टं दुष्टं च स्वार्थेभ्यो भेदयंश्च तत् । ऊढायां हि सवर्णायामन्या वा काममुद्वहेत् ॥ तस्यामुत्पादितः पुत्रो न सवर्णात् प्रहीयते ॥१० उद्वहेत् क्षत्रियां विप्रो वैश्याश्च क्षत्रियो विशाम् । न तु शूद्रां द्विजः कश्चिन्नाधमः पूर्ववर्णजाम् ।।११ नानावर्णासु भार्यासु सवर्णा सहचारिणी । धा धर्मेषु धर्मिष्ठा ज्येष्ठा तस्य स्वजातिषु ॥१२ पाटितोऽयं द्विजाः पूर्वमेकदेहः स्वयम्भुवा। पतयोऽर्द्धन चान पत्न्योऽभूवन्निति श्रुतिः ॥१३ यावम विन्दते जायां तावदो भवेत् पुमान् । नाई प्रजायते सर्व प्रजायतेत्यपि श्रुतिः ॥१४ गुर्वी सा भूनिवर्गस्य वोढुं नान्येन शक्यते । यतस्ततोऽन्यहं भूत्वा स्ववशो बिभृयाच ताम्॥१५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy