________________
१६३२. व्यासस्मृतिः।
प्रथमोविप्रवद्विप्रविनासु क्षत्रविन्नासु विप्रवत् । जातकर्माणि कुर्वीत ततः शूद्रासु शूद्रवत् ॥७ वैश्यासु विप्रक्षत्राभ्यां ततः शूद्रासु शूद्रवत् । अधमादुत्तमायान्तु जातः शूद्राधमः स्मृतः ।।८ ब्राह्मण्यां शूद्रजनितश्चाण्डालो धर्मवर्जितः। कुमारीसम्भवस्त्वेकः सगोत्रायां द्वितीयकः ॥8 ब्राह्मण्यां शूद्रजनितश्चाण्डालत्रिविधः स्मृतः। वर्द्ध की नापितो गोप आशापः कुम्भकारकः ॥१० वणिक्करातकायस्थमालाकार कुटुम्बिनः। एते चान्ये च बहवः शूद्रा भिन्नः स्वकर्मभिः । चर्मकारो भटो भिल्लो रजकः पुष्करो नटः। वरटोमेदचण्डालदास(श)स्वपचकोलकाः॥११ एतेऽन्त्यजाः समाख्याता ये चान्ये च गवाशनाः । एषां सम्माषणात् स्नानं दर्शनादर्कवीक्षणम् ॥१२ गर्भाधानं पुंसवनं सीमन्तो जातकर्म च । नामक्रिया निष्क्रमणेऽन्नाशनं वपनक्रिया ॥१३ कर्णवेधो बतादेशो वेदारम्भक्रियाविधिः । केशान्तः स्नानमुद्वाहो विवाहाग्निपरिग्रहः ॥१४ त्रेताग्निसंग्रहश्चेति संस्काराः षोडश स्मृताः। नवताः कर्णवेधान्ता मन्त्रवज क्रियाः स्त्रियाः॥१५ विवाहो मन्त्रतस्तस्याः शूद्रस्यामन्त्रतो दश । गर्भाधानं प्रथमतस्तृतीये मासि पुंसवः॥१६