SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] भोजनाद्यनेकप्रकरणवर्णनम् । यज्ञोपवीती भुञ्जीत सुगन्धालङ्कृतोत्तरम् । सायम्प्रात(दिवारात्र्युपलक्षणं) स्तु भुञ्जीत विशेषेण समाहितम् ॥७८ नाद्यात्सूर्य्यग्रहात्पूर्व महिसायं शशिग्रहात् । ग्राहकाले च नाश्नीयात् स्नात्वाश्नीयात्प्रमुक्तयोः ॥७६ अमुक्तयोरस्तगयोरद्यादृदृष्ट्ा परेऽहनि । नाश्नीयात्प्रेक्षमाणाना मप्रदायापि दुर्गतः ॥८० न यज्ञशिष्टादन्यत्वात्कुलो मान्यो ममातुरः । आत्मार्थं भोजनं यस्य सुर्खार्थं यस्य मैथुनम् ॥८१ वृत्त्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम् । यो भुङ्क्ते वेष्टितशिरा यस्तु भुङ्क्ते विदिङ्मुखः ॥८२ सोपानत्कश्च यो भुङ्क्ते सर्वं विद्यात्तदासुरम् । नार्धरात्रे न मध्याह नाजीर्णे नार्द्रवस्त्रधृक् ॥८३ न व भिन्नासनगतो न शयान स्थितोऽपि वा । नोपानत्पादुकी चापि न च संविलपन्नपि ॥८४ भुङ्क्ते मुखमास्थाय तदन्नं परिणामयेत् । इतिहास पुराणाभ्यां वेदार्थ मुप हयेत् ॥८५ ततः सन्ध्यामुपासीत पूर्वोक्त विधिना द्विजः । आसीनस्तु जपेद्देवीं गायत्रीं पश्चिमाम्प्रति ॥८६ नानुतिष्ठति यः पूर्वामुपास्ते न च पश्चिमाम् । शूद्र ेण समोलोके सर्वकर्म विगर्हितः ॥ ८७ हुत्वाग्नौ विधिवन्मत्रैर्भुक्त्वा यज्ञावशिष्टकम् । १६२६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy