________________
१६२८ लघुव्याससंहिता। [द्वितीयो
आयुष्यं प्रामुखो भुक्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यक् मुखोभुङ्क्ते भृणं भुङ्क्ते उदङ्मुखः ॥६७ आसीनस्त्वासनेशुद्ध भूम्यां पादौ निधाय च । उपवासेन तत्तुल्यं मनुराह प्रजापतिः ॥६८ पञ्चाोभोजनं कुर्य्यात् भूम्यां पादौ निधाय च । उपलिप्त शुचौ देशे पादौ प्रक्षाल्य वै करौ ॥६६ आर्द्रवागाननोभूत्वा पञ्चाोभोजनश्चरेत् । महाव्याहृतिभिश्चान्नं परिधायोदकेन तु ॥७० अमृतोपस्तरणमसीत्यापोशनक्रियाञ्चरेत् । स्वाहा प्रणवसंयुक्तं प्राणायान्नाहुतिं ततः ॥७१ अपानाय ततोहुत्वा व्यानाय तदनन्तरम् । उदानाय ततोहुत्वा समानायेति पञ्चमम् ।।७२ विज्ञाय चार्थमेतेषां जुहुयादात्मवान् द्विजः । शेषमन्नं यथाकामं भुञ्जीत व्यञ्जनेयुतम् ।।७३ ध्वात्वा तन्मनसा देवमात्मानं वै प्रजापतिम् । अमृतापिधानमसीत्युपरिष्टाजलं पिबेत् ।।७४ आचम्याङ्गुष्ठमाण पादाङ्गुष्ठे तु दक्षिणे । निधापयेद्धस्तजल मूर्ध्वहस्तः समाहितः ।।७५ हुत्वानुमन्त्रणं कुर्य्याच्छ्रद्धायामिति मन्त्रतः । अथाक्षरेण स्वात्मानं योजयेत् ब्रह्मणेति हि ॥७६ सर्वेषामेव योगानामात्मयोगः परं स्मृतः । योगेन विधिना कुर्यात् स याति ब्रह्मणः पदम् ॥७७