________________
ऽध्यायः ]
शरीरशुद्धिवर्णनम् ।
लेपयेदथतीरस्थस्तल्लिङ्गनैव मन्त्रतः ।
प्रक्षाल्याचम्य विधिवत् ततः स्नायात्समाहितः ॥ १४ अभिमन्त्रय जलर्मन्त्रैरब्लिङ्गैर्वारुणैः शुभैः । आपो नारायणोद्भूता स्नानेवास्यायनं पुनः ॥ १५ तस्मान्नारायणं देवं स्नानकाले स्मरेद्बुधः । प्रोक्ष्यसोङ्कारमादित्यं त्रिर्निमज्जेज्जलाशये ॥१६ आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् । अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ॥१७ त्वं यज्ञस्त्वं वषट्कार आपोज्योती रसोऽमृतम् । द्विपदां वा त्रिरभ्यस्येद्व्याहृतिं प्रणवादिकाम् ॥१८ सावित्रीं वा जपेद्विद्वान् स्तथैवाप्यघमर्षणम् । ततः सन्मार्जनं कुर्यादापोहिष्ठामयोभुवः ॥ १६ इदमापः प्रवहत व्याहृतिभिस्तथैव च । ततोऽभिमन्त्र्य तत्तीर्थमा पोहिष्ठादिमन्त्रकैः ||२० अन्तर्गत जलमग्नो जपेत् त्रिरघमर्षणम् । द्विपदां वाथ गायत्रीं तद्विष्णोः परमम्पदम् ॥२१ आवर्त्तयेद्वा प्रणवं देवं वा संस्मरेद्धरिम् । द्विपदोहि परो मन्त्रो यजुर्वेदे प्रतिष्ठितः ॥ २२ अन्तर्जलात्त्रिरावृत्या सर्वपापैः प्रमुच्यते । आपः पाणौ समादाय जप्त्वा वा मार्जने कृते ॥ २३ विन्यस्य मूर्ध्नि तत्तोयं सर्वपापैः प्रमुच्यते । यथाश्वमेधः क्रतुराट् सर्वपाप प्रणोदनः ॥२४
१६२३