________________
सफलंसन्ध्याकर्तव्यवर्णनम् ।
सन्ध्याहीनोऽशुचिर्नित्य मनः सर्वकर्मसु । यदन्यत् कुरुते कर्म न तस्य फलमाप्नुयात् ॥ २७ अनन्यचेतसो शान्ता ब्राह्मणा वेदपारगाः । उपास्य विधिवत्सन्ध्यां प्राप्ताः पूर्वे पराङ्गतिम् ॥२८ योऽन्यतः कुरुते यत्नं धर्मकार्ये द्विजोत्तमः । विहाय सन्ध्याप्रणति स याति नरकायुतम् ॥२६ तस्मात्सर्व प्रयत्नेन सन्ध्योपासं समाचरेत् । उपासितो भवेत्तेन देवयोगतनुः परः ॥ ३०
उध्यायः ]
सहस्रपरमां देवीं शतमध्यां दशावराम् । गायत्रीं वै जपेद्विद्वान् ब्राह्मणः प्रयतः स्थितः ||३१
इति लघुव्यासस्मृतौ प्रथमोऽध्यायः ।
अथ द्वितीयोऽध्यायः । अथ कर्तव्यकर्मविशेषवर्णनम् ।
अथागम्य गृहं विप्रः समाचम्य यथाधिधि | अग्निं प्रज्वाल्य विधिवत् जुहुयाज्जातवेदसम् ॥१ ऋत्विक पुत्रोऽथवा पत्नी शिष्योऽपि च सहोदरः । प्राप्यानुज्ञां विशेषेण जुहुयाद्वा यथाविधि ॥२ पवित्रपाणिः शुद्धात्मा शुद्धाम्बरधरोऽपरः । अनन्यमानसो वहौ जुहुयात्संयतेन्द्रियः ॥३
१६२१