________________
१६१६
वृहस्पतिस्मृतिः ।
अविद्वान् प्रतिगृह्णाति भस्मीभवति काष्ठवत् । यस्य चैव गृहे मूर्खो दूरे चापि बहुश्रुतः ॥ ६० बहुश्रुताय दातव्यं नास्ति मूर्खे व्यतिक्रमः । कुलं तारयते धीरः सप्त सप्त च वासव ! ॥ ६१
डाकं नवं कुर्य्यात् पुराणं वाऽपि खानयेत् । स सर्वं कुलमुद्धृत्य स्वर्गे लोके महीयते ॥ ६२ वापीकूपतडागानि उद्यानोपवनानि च । पुनः संस्कारकर्त्ता च लभते मौलिकं फलम् ॥ ६३ निदाघकाले पानीयं यस्य तिष्ठति वासव ! । स दुर्गं विषमं कृत्स्नं न कदाचिदवाप्नुयात् ॥६४ एकाहं तु स्थितं तोयं पृथिव्यां राजसत्तम ! कुलानि तारयेत्तस्य सप्त सप्त पराण्यपि ॥ ६५ दीपालोक प्रदानेन वपुष्मान् स भवेन्नरः । प्रोक्षणीयप्रदानेन स्मृति मेधाश्च विन्दति ॥ ६६ कृत्वाऽपि पापकर्माणि यो दद्यादन्नमर्थिने । ब्राह्मणाय विशेषेण न स पापेन लिप्यते ॥ ६७ भूमिर्गाव स्तथा द्वारा: प्रसह्य हियते यदा । नचाऽऽवेदयते यस्तु तमाहुर्ब्रह्मघातकम् ॥६८ निवेदितस्तु राजा वै ब्राह्मणैर्मन्युपीडितैः । तं न तारयते यस्तु तमाहुर्ब्रह्मघातकम् ॥६६ उपस्थिते विवाहे च यज्ञे दाने च वासव ।। मोहाचरति विघ्नं यः स मृतो जायते क्रिमिः ॥७०