________________
तडागादिनिर्माण फलाभिधानम् ।
धनं फलति दानेन जीवितं जीवरक्षणात् । रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते ॥७१ फलमूलाशनात् पूज्यं स्वगं सत्येन लभ्यते । प्रायोपवेशनाद्राज्यं सर्वत्र सुखमश्नुते ॥७२ गवाढ्यः शक्रदीक्षायाः स्वर्गगामी तृणाशनः । त्रिय त्रिषवणनायी वायुं पीत्वा ऋतु लभेत् ॥७३ नित्यस्त्नायी भवेदकँः सन्ध्ये द्वे च जपन् द्विजः । न तत्साधयते राज्यं नाकपृष्ठमनाशके ॥७४ अग्निप्रवेशे नियतं ब्रह्मलोके महीयते । रत्ना (सा) नां प्रतिसंहारे पशून् पुत्रांश्च विन्दति ॥७५ नाके चिरं स वसते उपवासी च यो भवेत् । सततं चैकशायी यः स लभेदीप्सिताङ्गतिम् ॥७६ वीरासनं वीरशय्यां वीरस्थानमुपाश्रितः । अक्षय्यास्तस्य लोकाः स्युः सर्वकामगमास्तथा ॥७७ उपवासश्च दीक्षाभ्व अभिषेकश्च वासव ! । कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥ ६८ अधीत्य सर्ववेदान् वै सद्यो दुःखात् प्रमुच्यते ॥ ६६ पावनं चरते धर्म स्वर्गे लोके महीयते ॥८० वृहस्पतिमतं पुण्यं ये पठन्ति द्विजातयः । चत्वारि तेषां वर्धन्ते आयुर्विद्या यशो बलम् ॥८१ इति वृहस्पतिप्रणीतं धर्म्मशास्त्रं सम्पूर्णम् । समाप्ताचेयं, बृहस्पतिस्मृतिः । ॐ तत्सत् ।
१६१७