SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ अन्यायेनभूमिहरणे फलं- कन्यानृतादिविषये दोषनिरूपणफलम् १६१५ शस्त्रमेकाकिनं हन्ति विप्रमन्युः कुलक्षयम् । मन्युप्रहरणा विप्रा चक्रप्रहरणो हरिः ॥४६ चक्रात्तीव्रतरो मन्युस्तस्माद्विप्रं न कोपयेत् । अग्निदग्धाः प्ररोहन्ति सूर्यदग्धास्तथैव च ॥५० मन्युदग्धस्य विप्राणामङ्कुरो न प्ररोहति । अग्निर्दहति तेजसा सूर्यो दहति रश्मिभिः ॥ ५१ राजा दहति दण्डेन विप्रो दहति मन्युना । ब्रह्मस्वेन तु यत् सौख्यं देवस्वेन तु या रतिः ।। ५२ कदनं कुलनाशाय भवत्यात्मविनाशकम् । ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम् ॥५३ गुरुमित्रहिरण्यश्च स्वर्गत्वमपि पीडयेत ।' ब्रह्मस्वेन तु च्छिद्रं तच्छिद्रं न प्ररोहति ॥५४ प्रच्छादयति तद्रमन्यत्र तु विसर्पति । ब्रह्मस्वेन तु पुष्टानि साधनानि बलानि च ॥५५ संग्रामे तानि लीयन्ते सिकतासु यथोदकम् । श्रोत्रियाय कुलीनाय दरिद्राय च वासव ! ॥५६ सन्तुष्टाय विनीताय सर्व्वभूताहिताय च । वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणां च संयमः ||५७ ईदृशाय सुरश्रेष्ठ ! यदत्तं हि तदक्षयम् । आमपात्रे यथान्यस्तं क्षीरं दधि घृतं मधु ॥५८ विनश्येत्पात्र दौर्बल्यात्तच पात्रं विनश्यति । एवं गाव हिरण्यभ्च वस्त्रमन्नं महीं तिलान् ||५६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy