SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ वृहस्पतिस्मृतिः।. . शूलपाणिश्च भगवानभिनन्दति भूमिदम् । आस्फोटयन्ति पितरः प्रहर्षन्ति पितामहाः ॥१७ भूमिदाता कुले जातः स नखाता भविष्यति । त्रीण्याहुरति दानानि गावः पृथ्वी सरस्वती ॥१८ तारयन्ति हि दातारं सर्वात्पापादसंशयम् । प्रावृता वस्त्रदा यान्ति नग्ना यान्ति ववस्त्रदाः॥१६ तृप्ता यान्त्यग्निदातारः क्षुधिता यान्त्यनन्नदाः।। काक्षन्ति पितरः सर्वे नरकाद्भयभोरवः ।।२०।। गयां यो यास्यति पुत्रः स नस्त्राता भविष्यति । एष्टव्या बहवः पुत्राः योकोऽपि गयां व्रजेत् ।।२१ यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्। लोहितो यस्तु वर्णेन पुच्छाग्रे यस्तु पाण्डुरः ॥२२ श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते । नीलः पाण्डुरलाङ्ग लस्तृणमुद्धरते तु यः ॥२३ षष्टिवर्षसहस्राणि पितरस्तेन तर्पिताः । यच शृङ्गगतम्पर्क कूलस्तिष्ठति चोद्धृतम् ॥२४ पितरस्तस्य नश्यन्ति सोमलोकं महाद्युतिम् । पृथोयदोदिलीपस्य नृगस्य नहुषस्य च ॥२५ अन्येषाश्च नरेन्द्राणां पुनरन्या भविष्यति । बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ॥२६ यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् । यस्तु ब्रह्मघ्नः स्त्रीनो वा यस्तु वै पितृघातकः ।।२७
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy